वाचस्पत्यम्
शैलसुता || स्त्री ६ त० । १ पार्वत्याम् २ गङ्गायां च ।
शब्दकल्पद्रुमः
शैलसुता || स्त्री (शैलस्य सुता ।)
पार्व्वती । यथा, —
“मातः शैलसुतासपत्नि वसुधाशृङ्गारहारावलि स्वर्गारोहणवैजयन्ति भवतीं भागीरथीं प्रार्थये ॥” इति वाल्मिकीयगङ्गाष्टकम् ॥ ज्योतिष्मती । इति राजनिर्घण्टः ॥