वाचस्पत्यम्
शैलूषिक || पु० शैलूषं तद्वृत्तिमन्वेष्टा ठक् । “वृत्त्यन्वेषी नटावान्तु स तु शैलूषिकः स्मृतः” ब्रह्मपु० उक्ते १ नट- वृत्त्यन्वेषिणि नटप्रधाने २ तत्पत्न्यां स्त्री ङीष् “नटीं शैलूषिकीं चैव रजकीं वेणुजीविनीम् । गत्वा चान्द्रा- यण कुर्य्यात् तथा चर्मोपजीविनीम” संवर्त्तः ।
शब्दकल्पद्रुमः
शैलूषिकः || पुं, नटवृत्त्यन्वेषी । यथा, —
“वृत्त्यन्वेषी नटानान्तु स तु शैलूषिकः स्मृतः ॥ इति ब्रह्मपुराणोक्तम् ॥ इति प्रायश्चित्तविवेकः ॥