संस्कृत-शब्दकोशः

शैलेन्द्रस्थ शैलेयी

शैलेय

वाचस्पत्यम्

शैलेय ||‍ न० शिलायां भवः ढक् । १ शैलजाख्ये गन्धद्रव्यमेदे हेमच० । शैलेयं शीतल हृद्यं कफपित्तहरं लघु । कण्डूकष्ठाश्मरीदाहविषहृद्गुदरक्तहृत्” भावप्र० । २ पर्वतजातमात्रे त्रि० । स्त्रियां ङीष् । ३ सिंहे ४ भ्रमरे च पुंस्त्री० शब्दर० स्त्रियां ङीष् । ५ शिलातुल्ये शब्दर० । ६ पार्वत्यां स्त्री ङीप् ।


शब्दकल्पद्रुमः

शैलेयं || क्ली (शिलायां भवम् । शिला + ढक् ।)
शैलजाख्यगन्धद्रव्यम् । शेलेयक इति रन्दूच इति छरिला इति च ख्यातम् । तत्पर्य्यायो यथा, —
“शेलेयं शैलजं वृद्धं शिलापुष्पं शिलोद्भवम् । स्थविरं पलितं जीर्णं तथा कालानुसार्य्यकम् ॥ शिलोत्थञ्च शिलादद्रुः शैलाजं गिरिपुष्पकम् । शिलाप्रसूनं सुभगं शैलकं षोडशाह्वयम ॥” अस्य गुणाः । “शैलेयं शिशिरं तिक्तं सुगन्धि कफपित्तजित् । दाहतृष्णावमिश्वासव्रणदोषविनाशनम् ॥” इति राजनिर्घण्टः ॥ आंप च । “शैलेयन्तु शिलापुष्पं वृद्धं कालानुसार्य्यकम् । शैलेयं शीतलं हृद्यं कफपित्तहरं लघु । कण्डूकुष्ठाश्मरीदाहविषहृद्गुदरक्तहृत् ॥” इति भावप्रकाशः ॥ * ॥
तालपर्णी । सैन्धवम् । इति मेदिनी ॥


शब्दकल्पद्रुमः

शैलेयं || त्रि (शैले भवम् । शैल + ढक् ।)
शैल- सम्भवम् । इति हेमचन्द्रः ॥ शिलातुल्यम् । इति शब्दरत्नावली ॥ (शिलेव । शिला + “शिलाया ढः ।” ५ । ३ । १०२ । इति योग- विभागेन ढञ् ॥)


शब्दकल्पद्रुमः

शैलेयः || पुं, (शैले भवः । शैल + ढक् ।)
सिंहः । भ्रमरः । इति शब्दरत्नाली ॥



Correction: