वाचस्पत्यम्
शैलोद्भवा || स्त्री शैलं पर्वतमुद्भिद्य भवति उद् + भू—अच् । १ क्षुद्रपाषाणभेदिनि वृक्षे राजनि० २ पार्वत्याञ्च ।
शब्दकल्पद्रुमः
शैलोद्भवा || स्त्री (शैलात् उद्भवो यस्याः ।) क्षुद्र- पाषाणभेदी । इति राजनिर्घण्टः ॥