वाचस्पत्यम्
शोथघ्नी || स्त्री शोथं हन्ति हन—टक् ङीप् । १ पुनर्नवयाम् अमरः । २ शालपर्ण्याञ्च राजनि० । ३ शोथनाशके औष- धमात्रे त्रि० ।
शब्दकल्पद्रुमः
शोथघ्नी || स्त्री (शोथं हन्तीति । हन् + “अमनुष्य- कर्त्तके च ।” ३ । २ । ५३ । इति टक् ।)
पुनर्नवा । इत्यमरः । शालपर्णी । इति राजनिर्घण्टः ॥ शोथनाशके, त्रि ॥