संस्कृत-शब्दकोशः

शौण्ड शौण्डिन्

शौण्डिक

वाचस्पत्यम्

शौण्डिक ||‍ पु० शुण्डा सुरा पण्यमस्य ठक् । १ मद्यविक्रेतरि २ जातिभेदे पुंस्त्री अमरः स्त्रियां ङीष् । “ततो गा- न्धिककन्यायां कैवर्त्तादेव शौण्डिकः” पराशरपद्धतिः ।


शब्दकल्पद्रुमः

शौण्डिकः || पुं, (शुण्डापण्यभस्य । शुण्डा + “तदस्य पण्यम् ।” ४ । ४ । ५१ । इति ठक् ।)
जातिविशेषः । शुडौ इति भाषा । तत्पर्य्यायः । मण्डहारकः २ इत्यमरः ॥ शुण्डारः ३ शौण्डी ४ शुण्डकः ५ । इति शब्दरत्नावली ॥ ध्वजः ६ पानः ७ पणः ८ । इति जटाधरः ॥ कल्पपालः ९ सुराजीवी १० । वापिवामः ११ पानबणिक् १२ ध्वजी १३ । आसुतीबलः १४ । इति हेमचन्द्रः ॥ तस्योत्- पतिर्यथा, — ततो गान्धिककन्यायां कैवर्त्तादेव शौण्डिकः । कैवर्त्तस्य च कन्यायां शौण्डिकादेव शौचिकः ॥” इति पराशरपद्धतिः ॥ (अस्य गृहे भोजननिषेधो यथा, मनुः । ४ । २१६ । “श्ववतां शौण्डिकानाञ्च चेलनिर्नेजकस्य च । रञ्जकस्य नृशंसस्य यस्य चोपपतिर्गृहे ॥” एषां गेहे नाद्यात् इत्यर्थः ॥ * ॥
शुण्डिका- दागते, त्रि, । अत्र “शुण्डिकादिभ्योऽण् ।” ४ । ३ । ७६ । इत्यण् ॥)



Correction: