वाचस्पत्यम्
शौभ || न० शोभायै हितम् अण् । १ व्योमगामिनि पुरभेदे हरिश्चन्द्रपुरे २ देवे पु० त्रिका० । ३ गुवाके शब्दमा० ।
शब्दकल्पद्रुमः
शौभं || क्ली (शोभायै हितम् । शोमा + अण् ।)
हरिश्चन्द्रपुरम् । इति त्रिकाण्डशेषः ॥ तत्प- र्य्यायः । व्योमचारिपुरम् २ । इति भूरिप्रयोगः (पुरमेतत् शाल्वस्य नृपतेरासीत् । कृष्णेनेदं विनाशितम् । एतद्वृत्तान्तस्तु भागवते १० स्कन्धे ७७ अध्याये द्रष्टव्यः ॥)
शब्दकल्पद्रुमः
शौभः || पुं, (शुभाय हितः । शुभ + अण् ।)
देवता इति त्रिकाण्डशेषः ॥ गुवाकः । इति शब्द- माला ॥