वाचस्पत्यम्
शौर्य्य || न० शूरस्य भावः ष्यञ् । १ वीर्य्ये २ शक्तौ ३ आरभट्यां च मेदि० ।
शब्दकल्पद्रुमः
शौर्य्यं || क्ली (शूरस्य भावः कर्म्म वा । शूर × व्यञ् ।)
शक्तिः । (यथा, रामायणे । ६ । १५ । ३ । “सत्त्वेन वीर्य्येण पराक्रमेण धैर्य्येण शौर्य्येण च तेजसा च ॥”)
आरभटी । इति मेदिनी ॥