संस्कृत-शब्दकोशः

शौवस्तिक शौष्कल

शौवापद

वाचस्पत्यम्

शौवापद ||‍ त्रि० श्वापदस्येदम् अण् । श्वापदसम्बन्धिनि


शब्दकल्पद्रुमः

शौवापदं || त्रि (श्वापदस्येदमिति । श्वापद + अण् । “पादान्तस्यान्यतरस्याम् ।” ७ । ३ । ९ । इति पक्षे ऐच् ।)
श्वापदसम्बन्धि । श्वापदशब्दात् ष्णप्रत्ययेन निष्पन्नम् । इति मुग्धबोधव्याकर- णम् ॥ (यथा, अनर्घराघवे । १ । २५ । “कच्चित् कान्तारभाजां भवति परिभवः कोऽपि शौवापदो वा प्रत्यूहेन क्रतूनां न खलु मखभुजो भुञ्जते वा हवींषि ॥”)



Correction: