संस्कृत-शब्दकोशः

श्चुत श्च्योत

श्च्युत

वाचस्पत्यम्

श्च्युत ||‍ क्षरणे भ्वा० पर० अक० आसेचने सक० सेट् । श्च्योतति इरित् अश्च्युतत् अश्च्योतीत् ।


शब्दकल्पद्रुमः

श्च्युत || इर् क्षरणे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-अक०-सेट् ।)
द्वौ तालव्य- वर्गाद्ययुक्ततालव्यादी । शेषोऽन्तःस्थादियुक्तश्च । नकारजावनुस्वारपञ्चमावित्यादिनियमेऽप्यनयो- स्तालव्यादित्वं तद्वचनस्य व्यभिचारसूचनार्थं तेन चुलुम्प लोपे इत्यादीनामोष्ठ्यवर्गशेषोप- धत्वं सङ्गच्छते । तेन क्विपि संयोगान्तलोपे चुलुम् इत्यादि सिद्धम् । किन्तु द्वौ दन्त्यादी इति धातुप्रदीपक्रमदीश्वरौ । तेन घृतं श्चोतति इति घृतश्चुत् तमाचष्टे इति ञौ ञीमंश्चेति डित्वाट्टिलोपे घृतश्चयति पुनः क्विपि ञेर्लोपे घृतस्क इति स्थिते संयोगादेः सस्य लोपे घृतक् इति केचित् ॥ इर, अश्चुतत् अश्चोतीत् । अश्च्युतत् अश्च्योतीत् । क्षर इति आसेचनं क्षरणञ्च । रक्तमाश्च्योतति क्षुर इति । इदं कवचमश्च्योतीदिति । निश्च्योतन्ते सुतनुकवरी बिन्दवो यावदेते । इति मालत्यां गणकृतानि- त्यत्वम् । इति दुर्गादासः ॥



Correction: