वाचस्पत्यम्
श्येन || पुंस्त्री० श्यै—इनन् । १ पक्षिभेदे (वाज) अमरः । २ पा- ण्डुरवर्णे च ३ तद्वति त्रि० मेदि० । तत्खगस्य शुभागुभसूचनं यथा “प्रदक्षिणीकृत्य नरं व्रजन्तो यात्रासु वामेग गताः प्रवेशे । श्येनाः प्रशस्ताः प्रकृतस्वरास्ते शान्ताः प्रदीप्ता वित्ततस्वस्तस्ते । श्येनो नृणां दक्षिणवामपृष्ठभागेषु भाग्यैः स्थितिमादधाति । तिष्ठन् पुरस्तान्मृतये कणेति युद्धे जयं छन्नरथध्वजस्थः” इति वसन्तराजः । “श्येनेनाभिचरन् यजेत” श्रुतिविहिते २ यागभेदे अभिचारशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
श्येनः || पुं, (श्यै ङ गतौ + श्यास्त्याहृञविभ्य इनच् ।” उणा० २ । ४६ । इति इनच् ।)
पाण्डुरवर्णः । इति मेदिनी ॥ पक्षिविशेषः । सञ्चालः इति वाज् इति च भाषा । तत्पर्य्यायः । शशादनः २ पत्री ३ । इत्यमरः ॥ कपोतारिः ४ पतद्भीरुः ५ । इति शब्दरत्नावली । घाति- पक्षी ६ ग्राहकः ७ मारकः ८ । इति जटा- धरः ॥ शशादः ९ क्रव्यादः १० क्रूरः ११ वेगी १२ खगान्तकः १३ करगः १४ नीलपिच्छः १५ लम्बकर्णः १६ रणप्रियः १७ रणपक्षी १८ पिच्छवाणः १९ स्थूलनीलः २० भयङ्करः २१ । इति राजनिर्घण्टः ॥ शशघातकः २२ । इति भावप्रकाशः ॥ अस्य मांसगुणाः प्रसहशब्दे द्रष्टव्याः ॥ * ॥
तस्य शुभाशुभसूचकत्वं यथा, —
“प्रदक्षिणीकृत्य नरं व्रजन्तो यात्रासु वामेन गताः प्रवेशे । श्येनाः प्रशस्ताः प्रकृतस्वरास्ते शान्ताः प्रदीप्ता विततस्वरास्ते ॥ श्येनो नृणां दक्षिणवामपृष्ठ- भागेषु भाग्यैः स्थितिमादधाति । तिष्ठन् पुरस्तान्मृतये करोति युद्धे जयं छन्नरथध्वजस्थः ॥” इति वसन्तराजशाकुने अष्टमवर्गः ॥