संस्कृत-शब्दकोशः

श्रत् श्रथन

श्रथ

वाचस्पत्यम्

श्रथ ||‍ दौर्बल्ये अ० चु० उ० अक० सेट् । श्रथयति ते असश्रथत् त ।


वाचस्पत्यम्

श्रथ ||‍ बधे भ्वा० पर० सक० सेट् । श्रथति अश्रथीत् अश्राथीत् ।


वाचस्पत्यम्

श्रथ ||‍ बन्ध मोक्षे बधे च वा चु० उ० पक्षे भ्वा० पर० सक० सेट् । श्राथयति ते श्रथति अशिश्रथत् त अश्रथोत्—अश्राथात् ।


वाचस्पत्यम्

श्रथ ||‍ यत्ने अक० प्रतिहर्षे सक० चु० उभ० सेट् । श्राथयति ते अशिश्रयत् त ।


वाचस्पत्यम्

श्रथ ||‍ शैथिल्ये अक० तत्करणे सक० भ्वा० आ० सेट् इदित् । श्रन्थते अश्रन्थिष्ट ।


शब्दकल्पद्रुमः

श्रथ || इ ङ शैथिल्ये । इति कविकल्पद्रुमः ॥ (भ्वा० आत्म०-अक०-सक०-च सेट् ।)
शैथिल्यमिह शिथिलीभावस्तत्करणञ्च ॥ इ, श्रन्थ्यते । ङ, श्रन्थते वस्त्रं शिथिलं स्यादित्यर्थः । श्रन्थते वस्त्रं लोकः शिथिलं करोति इत्यर्थः । इति दुर्गा- दासः ॥


शब्दकल्पद्रुमः

श्रथ || क यत्ने । प्रतिहृषि । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-यत्ने अक०-प्रतिहर्षे सक० सेट् । क, श्राथयति पठितुं शिष्यः । श्राथयति शिशुं लोकः पुनःपुनर्हर्षयति इत्यर्थः । इति दुर्गा- दासः ॥


शब्दकल्पद्रुमः

श्रथ || कि वधे । मोक्षे । वधे । इति कविकल्पद्रुमः ॥ (चुरा०-पक्षे भ्वा०-सक०-सेट् ।)
कि, श्राथ- यति श्रथयति । श्लाघ्यं श्राथयति स्फुटार्थ- मधुरं गद्यञ्च पद्यं सदा भावालङ्कृतिपेशलं श्रथयति स्पष्टाक्षरं नाटकम् । श्रथ्नाति प्रथि- तावदातचरितः शास्त्रं विचित्रञ्च य इति हलायुधोक्तं श्रथयतीति श्रथ त् क दौर्ब्बल्ये इत्यदन्तस्य रूपम् । अनेकार्यत्वात् बध्नाती- त्यर्थः । इति दुर्गादासः


शब्दकल्पद्रुमः

श्रथ || त् क दौर्बल्ये । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-अक०-सेट् ।)
श्रथयति । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

श्रथ || म वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।)
म, श्रथयति ! इति दुर्गादासः ॥



Correction: