संस्कृत-शब्दकोशः

श्रवण श्रवणशीर्षिका

श्रवणद्वादशी

वाचस्पत्यम्

श्रवणद्वादशी ||‍ स्त्री श्रवणेन युक्ता द्वादशी शाक० । “मासि भाद्रपदे शुक्ले द्वादशी श्रवणाःन्वता” इत्युक्तायां भाद्र- शुक्लद्वादृश्याम् । व्रतशब्दे दृश्यम् ।


शब्दकल्पद्रुमः

श्रवणद्वादशी || स्त्री (श्रवणयुक्ता द्वादशी ।)
श्रवणानक्षत्रयुक्तभाद्रशुक्लद्वादशी । यथा, — पितामह उवाच । “श्रवणद्वादशीं वक्ष्ये भुक्तिमुक्तिप्रदायिनीम् । एकादशी द्वादशी च श्रवणेन च संयुता ॥ विजया सा तिथिः प्रोक्ता हरिपूजादि चाक्ष- यम् । एकभक्तेन नक्तेन तथैवायाचितेन च ॥ उपवासेन भक्ष्येण नैवाद्वादशिको भवेत् । कांस्यं माषं तथा क्षौद्रं लोभं वितथभाषणम् ॥ व्यायामञ्च व्यवायञ्च दिवास्वप्नमथाञ्जनम् । शिलापिष्टं मसूरञ्च द्वादश्यां वर्ज्जयेन्नरः ॥ मासि भाद्रपदे शुक्ले द्वादशी श्रवणान्विता । महती द्वादशी ज्ञेया उपवासे महाफला ॥ सङ्गमे सरितः स्नानं बुधयुक्ता महाफला । कुम्भे सरत्ने सजले यजेत् स्वर्णन्तु वामनम् ॥ सितवस्त्रयुगच्छन्नं छत्रोपानद्युगान्वितम् । ॐ नमो वासुदेवाय शिरः संपूजयेत्ततः ॥ श्रीधराय मुखं तद्वत् कण्ठं कृष्णाय वै नमः । नमः श्रीपतये वक्षो भुजौ सर्व्वास्त्रधारिणे ॥ व्यापकाय नमः कक्षौ केशवायोदरं बुधः । त्रैलोक्यपतये मेढ्रं जङ्घां सर्व्वपते नमः ॥ सर्व्वात्मने नमः पादौ नैवेद्यं घृतपायसम् । कुम्भांश्च मोदकान् दद्यात् जागरं कारयेन्निशि ॥ स्नात्वा प्रीतोऽर्च्चयित्वा तु कृतपुष्पाञ्जलिर्वदेत् । नमो नमस्ते गोबिन्द बुध श्रवणसंज्ञक ॥ अघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव । प्रीयतां देव देवेशो विप्रेभ्यः कलसान् ददेत् । नद्यास्तीरेऽथवा कुर्य्यात् सर्व्वान् कामानवा- प्नुयात् ॥” इति गारुडे १४१ अध्यायः ॥ अन्यत् द्वादशीशब्दे द्रष्टव्यम् ॥



Correction: