संस्कृत-शब्दकोशः

श्रवणशीर्षिका श्रवस्

श्रवणा

शब्दकल्पद्रुमः

श्रवणा || स्त्री पुं, नक्षत्रविशेषः । इति मेदिनी ॥ सा तु अश्विन्याद्यन्तर्गतद्वाविंशनक्षत्रम् । तस्याः स्वरूपं शराकारतारात्रयात्मकम् । तस्याधि- देवो हरिः । यथा, —
“तारकात्रयमिते शराकृतौ केशवे गगनमध्यवर्त्तिनि । मत्तवारणगतेऽजलग्नतो निर्ययुर्गजमहीध्रलिप्तिकाः ॥” दं १ । पं १८ । इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥ * ॥
तत्र जातफलम् । “शास्त्रानुरक्तो बहुपुत्त्रमित्रः सत्पुत्त्रभक्तिर्व्विजितारिवर्गः । चेज्जन्मकाले श्रवणा हि यस्य प्रेमा पुराणश्रवणे प्रवीणः ॥ इति कोष्ठीप्रदीपः ॥ * ॥
तत्र गृहारम्भार्यतृणकाष्ठादिच्छेदनसंग्रहदक्षि- णादिक्गमननिषेधा यथा, —
“छेदनं संग्रहञ्चैव काष्ठादीनां न कारयेत् । श्रवणादौ बुधः षट्के न गच्छेद्दक्षिणां दिशम् ॥ अग्निपीडा भयं शोको राजपीडा धनक्षयः । संग्रहे तृणकाष्ठानां कृते वस्वादिपञ्चके ॥” इति ज्योतिस्तत्त्वम् ॥


शब्दकल्पद्रुमः

श्रवणा || स्त्री मुण्डरिकावृक्षः । इति रत्नमाला ॥



Correction: