संस्कृत-शब्दकोशः

श्रवाय्य श्रविष्ठाज

श्रविष्ठा

वाचस्पत्यम्

श्रविष्ठा ||‍ स्त्री श्रूयते श्रु—अप् श्रवः प्रसिद्धिरस्त्यस्याः मतुप् ङीप् अतिशयेन श्रववती इष्टन् मतुपो लुक् । १ धनिष्ठा- नक्षत्रे अमरः २ श्रवणनक्षत्रे च ।


शब्दकल्पद्रुमः

श्रविष्ठा || स्त्री (श्रवणमिति श्रवः । सोऽस्या अस्तीति । मतुप् । अतिशयेन श्रववती । अति- शयने तमबिष्ठनौ इति इष्ठन् । विन्मतुपोर्लुगिति मतुपो लुक् ।)
धनिष्ठानक्षत्रम् । इत्यमरः ॥ (यथा, वामनपुराणे ७७ अध्याये । “श्रविष्ठायां तथा पृष्ठं शालिभक्तञ्च दोहदे । पुष्ये मुखं पूजयेत दोहदे घृतपायसम् ॥”)



Correction: