संस्कृत-शब्दकोशः

श्राद्धशाक श्राद्धिन्

श्राद्धिक

वाचस्पत्यम्

श्राद्धिक ||‍ त्रि० श्राद्धे देयं, श्राद्धं दद्द्रव्य भक्ष्यत्वेनास्त्यस्य वा ठन् । १ श्राद्धद्धेये भक्ष्ये २ श्राद्धदेयद्रव्यभोक्तरि च ।


शब्दकल्पद्रुमः

श्राद्धिकः || त्रि (श्राद्धमनेन भुक्तमिति । श्राद्ध + “श्राद्धमनेन भुक्तमिनिठनौ ।” ५ । २ । ८५ । इति ठन् ।)
श्राद्धभोक्ता । इति सिद्धान्त- कौमुदी ॥ श्राद्धसम्बन्धिद्रव्यादि । यथा, याज्ञ- वल्क्यः । “सन्ध्यागर्ज्जितनिर्घाते भूकम्पोल्कानिपातने । समाप्य वेदं द्युनिशमारण्यकमधीत्य च ॥ पञ्चदश्यां चतुर्द्दश्यामष्टम्यां राहुसूतके । ऋतुसन्धिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च ॥” इति तिथ्यादितत्त्वम् ॥



Correction: