संस्कृत-शब्दकोशः

श्रीकन्दा श्रीकरण

श्रीकर

वाचस्पत्यम्

श्रीकर ||‍ न० श्रियं शोभां करोति कृ—अच् । १ रक्तोत्पले त्रिका० २ विष्णौ पु० ३ दायनिबन्धमेदकारके पण्डितभेदे च पु० । ४ शोभाकारके त्रि० ।


शब्दकल्पद्रुमः

श्रीकरं || क्ली रक्तोत्पलम् । इति त्रिकाण्डशेषः ॥


शब्दकल्पद्रुमः

श्रीकरः || पुं, विष्णुः । इति त्रिकाण्डशेषः ॥ स्मृति- ग्रन्थकारविशेषः । यथा । श्रीकराचार्य्यादि- ग्रन्थादरपराहतविवेकानाम् । इति दायभागा- द्यश्लोकटीमायां श्रीकृष्णतर्कालङ्कारः ॥ (श्रियः शोभायाः करः)
। श्रीकारके, त्रि ॥



Correction: