संस्कृत-शब्दकोशः

श्रीपं श्रीपति

श्रीपञ्चमी

वाचस्पत्यम्

श्रीपञ्चमी ||‍ स्त्री श्रियः पूजाङ्गं पञ्चमी शाक० । माधशुक्ल- पञ्चम्याम् । माघोपक्रमे “चतुर्थी वरदा शुक्ला तत्र गौरी सुपूजिता सौभाग्यमतुलं कुर्य्यात् पञ्चम्यां श्रीरपि श्रियम्” । सरस्वतीपूजादिनेऽनध्यायश्च गौडाचारः । अत्र श्रीपञ्च म्यामारभ्य प्रतिमासं षडब्दसमाप्यं श्रीपञ्चमीव्रतं स्त्रियः कुर्वन्ति तत्प्रमाणं संवत्सरकौमुदीधृतब्रह्मपु० ।


शब्दकल्पद्रुमः

श्रीपञ्चमी || स्त्री (श्रियः सरस्वत्याः पञ्चमी ।)
माघशुक्लपञ्चमी । यथा, —
“चतुर्थी वरदा शुक्ला तत्र गौरी सुपूजिता । सौभाग्यमतुलं कुर्य्यात् पञ्चम्यां श्रीरपि श्रियम् ॥ सरस्वतीपूजानध्यायश्चात्र गौडाचारः । अत्र श्रीपञ्चम्यामारभ्य प्रतिमासं षडब्दसमाप्यं श्रीपञ्चमीव्रतं कुर्व्वन्ति पठन्ति च । इति संव- त्सरकौमुदीधृतब्रह्मपुराणवचनम् ॥



Correction: