वाचस्पत्यम्
श्रीफल || पु० श्रीयुक्तं फलमस्य । १ बिल्ववृक्षे अमरः । २ रा- जादन्याञ्च राजनि० । ३ नील्यां ४ क्षुद्रकारवेल्ल्यां स्त्री राजनि० टाप् । स्वार्थे क अत इत्त्वम् । ५ तत्रार्थे रा- जनि० । ६ आमलक्यां मेदि० स्त्री गौरा० ङीष् ।
शब्दकल्पद्रुमः
श्रीफलः || पुं, (श्रीयुक्तं फलमस्य ।)
विल्ववृक्षः । इत्यमरः । राजादनी । इति राजनिर्घण्टः ॥