वाचस्पत्यम्
श्रीवल्ली || स्त्री श्रीयुक्ता वल्ली । कण्टकप्रधानवृक्षभेदे राजनि० ।
शब्दकल्पद्रुमः
श्रीवल्ली || स्त्री (श्रीयुता वल्ली ।)
कण्टकवृक्षभेदः । तत्पर्य्यायः । शिववल्ली २ कण्टवल्ली ३ शावली ४ अम्ला ५ कटुफला ६ दुरारोहा ७ । अस्या गुणाः । कटुत्वम् । अम्लत्वम् । वातशोफकफा- पहत्वञ्च । तत्फलं तैललेपघ्नमत्यम्लं रुचिकृत् परम् । इति राजनिर्घण्टः ॥