वाचस्पत्यम्
श्रीवारक || पु० श्रियं वारयति कामयते ण्वुल् । सितावर- शाके राजनि० ।
शब्दकल्पद्रुमः
श्रीवारकः || पुं, (श्रियं वारयति कामयते इति । वृ + णिच् + ण्युल् ।) सितावरशाकः । इति राजनिर्घण्टः ॥