संस्कृत-शब्दकोशः

श्रुतितत्पर श्रुतिमूल

श्रुतिधर

वाचस्पत्यम्

श्रुतिधर ||‍ त्रि० श्रुत्या श्रवणमात्रेण धरति धारयति धृ—अच् । श्रवणमात्रेण धारणायुक्ते ।


शब्दकल्पद्रुमः

श्रुतिधरः || त्रि (श्रुत्या श्रवणमात्रेण धरतीति । धृ + अच् । श्रुतिमात्रधारकः । श्रवणमात्रे- णाभ्यासकर्त्ता । (यथा, गीतगोविन्दे । १ । ४ । “स्पर्द्धी कोऽपि न विश्रुतः श्रुतिधरो धोयी कविः क्ष्मापतिः ॥”)
तदौषधं यथा, — हरिरुवाच । “हस्तिकर्णस्य वै मूलं गृहीत्वा चूर्णयेद्धर । सर्वरोगविनिर्मुक्तं चूर्णं पलशतं शिव ॥ सक्षीरं भक्षितं कुर्य्यात् सप्ताहेन वृषध्वज । नरं श्रुतिधरं शूरं मृगेन्द्रगतिविक्रमम् ॥ पद्मगौरप्रतीकाशं युक्तं दशशतायुषा । षोडशाब्दाकृतिं विप्र सततं दुग्धभोजितम् ॥ मधुसर्पिःसमायुक्तं जग्धमायुष्करं भवेत् । तज्जग्धं मधुना सार्द्धं दशवर्षसहस्रिणम् । कुर्य्यान्नरं श्रुतिधरं प्रमदाजनवल्लभम् ॥” इति गारुडे १९१ अध्यायः ॥



Correction: