संस्कृत-शब्दकोशः

श्रुतिवर्जित श्रुतिस्फोटा

श्रुतिवेध

वाचस्पत्यम्

श्रुतिवेध ||‍ पु० श्रुतेः कर्णस्य वेधी यत्र । कर्णवेधाख्ये सस्का- रभेदे कर्णवेधशब्दे १७१० पृ० दृश्यम् ।


शब्दकल्पद्रुमः

श्रुतिवेधः || पुं, (श्रुतेः कर्णस्य वेधो यत्र ।)
कर्ण- वेधः । तस्य विहितकालो यथा दीपिकायाम् । “नो जन्मेन्दुममाससूर्य्यरविजक्ष्माजाहसुप्ताच्युते शस्तेऽर्के लघुयुग्मविष्णुमृदुभे स्वात्युत्तरादित्यभे सौम्यैस्त्र्यायत्रिकोणकण्टकगतैः पापैस्त्रिलाभा- रिगै- रोजोऽब्दे श्रुतिवेध इत्यसितभे लग्ने तु काले शुभे ॥” इति ज्योतिस्तत्त्वम् ॥ अन्यच्च । तत्र तिथयः रिक्ताभिन्नाः प्रशस्ताः । वाराः बृहस्पतिबुधशुक्राणां प्रशस्ताः । नक्ष- त्राणि अश्विनी रेवती हस्ता चित्रा पुनर्व्वसु- धनिष्ठा मृगशिरः पुष्यः श्रवणानुराधा उत्तर- फल्गुनी उत्तराषाढा उत्तरभाद्रपत्स्वाती । लग्नानि वृषतुलाधनुर्मीनसंज्ञकानि । अयुग्म- वर्षे । जन्ममासचैत्रपौषाग्रहायणभिन्नमासाः प्रशस्ताः । शुक्लपक्षे चन्द्रतारादिशुद्धौ हरि- शयनभिन्नकाले कालशुद्धौ श्रुतिवेधः कार्य्यः । इति ज्योतिषम् ॥



Correction: