संस्कृत-शब्दकोशः

श्रै श्रोणा

श्रोण

वाचस्पत्यम्

श्रोण ||‍ पु० श्रोण—अच् । १ पङ्गौ अमरः । २ काञ्जिके स्त्री ।


वाचस्पत्यम्

श्रोण ||‍ संधाते भ्वा० पर० अक० सेट् ऋदित् चङि न ह्रस्वः । श्रोणंति अश्रोणीत् ।


शब्दकल्पद्रुमः

श्रोण || ऋ संघाते । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।)
ऋ अशुश्रोणत् । संघातो राशीकरणम् । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

श्रोणः || पुं, (श्रोणतीति । श्रोण संघाते + अच् । यद्वा शृणोतीति । श्रु श्रवणे बाहुलकात् नः । इत्युणादिटीकायां उज्ज्वलदत्तः । ३ । ६ ।)
पङ्गः । इत्यमरः ॥



Correction: