संस्कृत-शब्दकोशः

श्रोणा श्रोणिफल

श्रोणि

वाचस्पत्यम्

श्रोणि(णी) ||‍ स्त्री श्रोण—इन् वा ङीप् । १ कट्याम् अमरः २ पथि शब्दर० ।


शब्दकल्पद्रुमः

श्रोणिः || स्त्री (श्रोण मंघाते + इन् । यद्वा, श्रु- श्रवणे + “वहिश्रिश्रुष्विति ।” उणा० ४ । ५१ । इति निः ।)
कटिः । इत्यमरः ॥ (यथा, बृहत्- मंहितायाम् । ५६ । ७ । “फुल्लतीरद्रुमोत्तंसाः सङ्गमश्रोणिमण्डलाः । पुलिनाभ्यु न्नतोरस्या हंसहासाश्च निम्नगाः ॥”)
सा तु गर्भस्थस्य मासद्वयेन भवति । इति सुख- बोधः ॥ पन्थाः । इति शब्दरत्नावली ॥



Correction: