वाचस्पत्यम्
श्लेष || पु० श्लिष—घञ् । १ संसर्गे अमरः । २ दाहे ३ आलिङ्गने ४ शब्दालङ्कारभेदे च अलङ्कारशब्दे ४०५ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
श्लेषः || पुं, (श्लिष + घञ् ।)
संयोगः । तत्पर्य्यायः ॥ सन्धिः २ । इत्यमरः ॥ दाहः । आलिङ्गनम् । इति श्लिषधात्वर्थदर्शनात् ॥ * ॥
(यथा आर्य्या- सप्तसत्याम् । ३८८ । “पुलकितकठोरपीवरकुचकलशश्लेषवेदना- भिज्ञः । शम्भोरुपवीतफणी वाञ्छति मानग्रहं देव्याः ॥” * ॥
श्लिष्यतीति । श्लिष + “श्याद्व्यधास्रुसंस्र्विति ।” ३ । १ । १४१ । इति णः ।)
शब्दालङ्कारविशेषः । तस्य लक्षणादिर्यथा, —
“वाच्यभेदेन भिन्ना यद्युगपद्भाषणस्पृशः । श्लिष्यन्ति शब्दाः श्लेशोऽसावक्षरादिभिरष्टधा ॥” अर्थभेदेन शब्दभेद इति दर्शने काव्यमार्गे स्वरो न गण्यते इति च न ये वाक्यभेदेन भिन्ना अपि शब्दा यद्युगपदुच्चारणेन श्लिष्यन्ति भिन्न- स्वरूपमपह्नुवते स श्लेषः ॥ * ॥
स च वर्णपद- लिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनानां भेदा- दष्टधा । क्रमेणोदाहरणम् । “अलङ्कारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः । अवस्थेयं स्थाणोरपि भवति सर्व्वामरगुरो- र्विधौ वक्रे मूर्द्ध्नि स्थितवति वयं के पुनरमी ॥ पृयुकार्त्तस्वरपात्रं भूषितनिःशेषपरिजनं देव । विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम् भक्तिप्रह्वविलोकनप्रणयिणी नीलोत्पलस्पर्द्धिनी ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये । लावण्यैकमहानिधी रसिकतां लक्ष्मीदृशो- स्तन्वती युष्माकं कुरुतां भवार्त्तिशमनं नेत्रे तनुर्व्वा हरेः ॥” एष एव वचनश्लेषोऽपि । “महदे सुर सन्धम्मे तमवसमासं गमागमा हरणे । हर वहु शरणं तं चित्तमोहमबसर उमे सहमा ॥ अयं सर्व्वाणि शास्त्राणि हृदि ज्ञेषु च वक्ष्यति सामर्थ्यकृदमित्राणां मित्राणाञ्च नृपात्मजः ॥ रजनिरमणमौलेः पादपद्मावलोक- क्षणसमयपराप्ता पूर्व्वसम्पत्सहस्रम् । प्रथमनिवहमध्ये जातु चित्तप्रसादा- दहमुचित्रुचिः स्यान्नन्दिता सा तथा मे ॥ सर्व्वस्वं हर सर्व्वस्य त्वं भवच्छेदतत्परः । नयोपकारसाम्मुख्यमायासि तनुवर्त्तनम् ॥” ‘भेदाभावात् । प्रकृत्यादेर्भेदोऽपि नवमो भवेत् ॥’ नवमोऽपीत्यपिर्भिन्नक्रमः । उदाहरणम् । “योऽसकृत् परगोत्राणां पक्षच्छेदक्षणक्षमः । शतकोटिदतां बिभ्रद्विबुधेन्द्रः स राजते ॥” अत्र प्रकरणादिनियमाभावात् द्वावप्पर्थौ वाच्यौ ननु स्वरितादिगुणभेदात् भिन्नप्रयत्नोच्चार्य्याणां तदभेदादभिन्नप्रयत्नोच्चार्य्याणाञ्च शब्दानां बन्धे- ऽनियमेनालङ्कारान्तरप्रतिभोत्पत्तिहेतुः । शब्द- श्लेषोऽर्थश्लेषश्चेति द्विविधोऽप्ययमर्थालङ्कारमध्ये गणितोऽन्यैरिति कथमयं शब्दालङ्कारः । उच्यते । इह दोषगुणालङ्काराणां शब्दार्थगत- त्वेन यो विभागः सोऽन्वयव्यतिरेकाभ्यामेव व्यवतिष्ठते । तथा हि कष्टत्वादिगाडत्वाद्यनुप्रा- सादयो व्यर्थत्वादिप्रौढत्वाद्युपमादयः सद्भावत- दभावानुविधायित्वादेव शब्दार्थगतत्वेन व्यव- प्यन्ते । तथाहि । “स्वयञ्च पल्लवाताम्रभास्वत्करविराजिता ।” इत्यभङ्गश्लेषः ॥ प्रभातसन्ध्ये वा श्वापफललुब्धे हितप्रदेति सभङ्गशब्दश्लेषश्चेति द्वावपि शब्दै- कसमाश्रयाविति द्वयोरपि शब्दश्लेषत्वमुपपन्नम् न त्वाद्यस्यार्थश्लेषत्वम् । अथेश्लेषस्यतु स विषयः यत्र शब्दपरिवर्त्तनेऽपि न श्लेषत्वखण्डना । यथा, “स्ताकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् अहो स्वसदृशी वृत्तिस्तुलाकोटेः खलस्य च ॥” न चायमुपमाप्रतिभोत्पत्तिहेतुः श्लेषः । अपि तु श्लेषप्रतिमोत्पत्तिहेतुरुपमा । तथा हि । यथा कमलमिव मुखं मनोज्ञमेतत् कचतितरा- मित्यादौ गुणसाम्ये क्रियासाम्ये उभयसाम्ये वा उपमा तथा सकलकलं पुरमेतज्जातं संप्रति च सितांशुविम्बमिवेत्यादौ शब्दमात्रसाम्ये- ऽपि युक्तैव तथा ह्युक्तं रुद्रटेन । स्फुटं अर्थालङ्कारावेतौ उपमासमुच्चयौ किन्तु । आश्रित्य शब्दमात्रं सामान्यमिहापि सम्भवत इति । न च कमलमिव मुख्यमित्यादि साधा- रणधर्म्मप्रयोगशून्य उपमाविषय इति वक्तुं युक्तं पूर्णोपमाया निर्विषयत्वापत्तेः । देवत्वमेव पातालमाशानां त्वं निबन्धनम् । त्वञ्चामरमरुद् भूमिरेको लोकत्रयात्मकः । इत्यादिश्लेषस्य चोपमाद्यलङ्कारविविक्तोऽस्ति विषयः । इति द्वयोर्योगे सङ्कर एव उपपत्तिपर्य्यालोचने तु उपमाया एवायं युक्तो विपयः अन्यथा विष- यापहार एव पूर्णोपमायाः स्यात् । न च अबिन्दुसुन्दरी नित्यं गलल्लावण्यविन्दुकेत्यादौ विरोधप्रतिभोत्पत्तिहेतुः श्लेषः । अपि तु श्लेष- प्रतिभोत्पत्तिहेतुर्विरोधः । न ह्यत्रार्थद्वयप्रति- पादकः शब्दः श्लेषः द्वितीयार्थस्य प्रतिभात- मात्रस्य प्ररोहाभावात् । न च विरोधाभारा इव विरोधः । श्लेषाभास इव श्लेषस्तस्मादेव- मादिषु वाक्येषु श्लेषप्रतिभोत्पत्तिहेतुरलङ्कारा- न्तरमेव साधीयः । तथा च सद्वं शमुक्तामणि- र्नान्यः कविरिव स्वल्पश्लोको देव महान् भवान् “अनुरागवती सन्ध्या दिवसस्तत्पुरःसरः । अहो दैवगतिश्चित्रा न तथापि समागमः ॥ आदाय चापमचलं कृत्वा हीनं गुणं विषम- दृष्टिः । यश्चित्रमच्यु तशरो लक्षमभाङ्क्षीन्नमस्तस्मै ॥” इत्यादावेकदेशविवर्त्तिरूपश्ले षव्यतिरेकसमासो क्तिविरोधत्वमुचितं न तु श्ले षत्वं शब्दश्ले ष इति चोच्यते । अर्थालङ्कारमध्ये च लक्षत इति कोऽयं नयः किन्तु वैचित्र्यमलङ्कारः इतियत्रैव कविप्रतिभासंरम्भगोचरस्तत्रैव विचित्रतेति सैवालङ्कारभूमिः । अर्थमुखमपेक्षित्वमेतेषां शब्दानामिति चेत् अनुप्रासादीनामपि तथैवेति तेऽप्यर्थालङ्काराः किं नोच्यन्ते रसादिव्यञ्जक- स्वरूपवाच्यविशेषव्यपेक्षेत्यनुप्रासादीनामल- ङ्कारताशब्दगुणदोषाणामप्यर्थापेक्षयैव गुणदो- षता । अर्थगुणदोषालङ्काराणां शब्दापेक्षयैव ष्यवस्थितिरिति तेऽपि शब्दगतत्वेनोच्यन्ताम् । विधौ वक्रे मूर्द्धि ख्यितवतीत्यादौ च वर्णादि- श्लेषे एकप्रयत्नोच्चार्य्यत्वेऽर्थश्लेषत्वं शब्दभेदेऽपि प्रसज्यतामित्येवमादि स्वयं विचार्य्यम् । इति काव्यप्रकाशे शब्दालङ्कारनिर्णया नाम ९ उल्लासः ॥