वाचस्पत्यम्
श्लेष्मल || त्रि० श्लेष्म + अस्त्यर्थे लच् । १ कफयुक्ते (बहुयार) २ वृक्षे पु० शब्दच० ।
शब्दकल्पद्रुमः
श्लेष्मलः || त्रि (श्लेष्मास्त्यस्येति । श्लेष्मन् + “सिध्मादिभ्यश्च ।” ५ । २ । ९७ । इति लच् ।)
श्लेष्मयुक्तः । इत्यमरः ॥
शब्दकल्पद्रुमः
श्लेष्मलः || पुं, श्लेष्मन् + लच ।)
वृक्षविशेषः । वहु- यार इति ख्यात्रः । इति शब्दचन्द्रिका ॥