वाचस्पत्यम्
श्लेष्मातक || पु० श्लेष्मणा स्वसेवनजनितकफेन अतति अत—ण्वुल् (वहुयार) बहुवारवृक्षे अमरः “बहुवारस्तु शीतः स्यादुदालो बहुवारकः । शेलुः श्लेष्मातकश्चापि पिच्छिलो भूतवृक्षकः । बहुवारो विषस्फोटव्रणवीसर्पकुष्ठनुत् । मधुरस्तुवरस्तिक्तः केश्यश्च कफपित्तहृत् । फलमामन्तु विष्टम्भि रूक्षं पित्तकफास्रजित् । तत् पक्वं मधुरं स्निग्धं श्लेष्मलं शीतलं गुरु” भावप्र० ।
शब्दकल्पद्रुमः
श्लेष्मातकः || पुं, (श्लेष्मात एव । स्वार्थे कन् ।)
नहु वारकवृक्षः । इत्यमरः ॥ (यथा मनुः ६ । १४ । “वर्जयेत् मधुमांसञ्च भौमानि कवकानि च । भूस्तृ णं शिग्रुकञ्चैव श्ल ष्मातकफलानि च ॥”)