वाचस्पत्यम्
श्वठ || गतौ संस्कारे च चु० उभ० सक० सेट् । श्वठयति—ते अशि- श्वठत् त । इदिदप्ययम् श्वण्टयति ।
वाचस्पत्यम्
श्वठ || दुर्वचने अद० चु० उभ० सक० सेट् । श्वठयति ते अशश्वठत् त ।
शब्दकल्पद्रुमः
श्वठ || इ क गतौ । असंस्कृते । संस्कृते । इति कविकल्पद्रुमः ॥ (चुरा०-पर०- सक०-सेट् ।)
द्वौ वकारयुक्तौ पुनःपाठादाद्यो नेदनुबन्धः । त्रयः अर्थाः । क, श्वाठयति । इ क श्वण्ठयति जनः । गच्छति किमपि संस्करोति वा इत्यर्थः । संस्कारगत्योरिति केचित् । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
श्वठ || क गतौ । असंस्कृते । संस्कृते । इति कविकल्पद्रुमः ॥ (चुरा०-पर०- सक०-सेट् ।)
द्वौ वकारयुक्तौ पुनःपाठादाद्यो नेदनुबन्धः । त्रयः अर्थाः । क, श्वाठयति । इ क श्वण्ठयति जनः । गच्छति किमपि संस्करोति वा इत्यर्थः । संस्कारगत्योरिति केचित् । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
श्वठ || त् क दुर्व्वाचि । इति कविकल्पद्रुमः ॥ (अदन्तचुरा०-पर०-सक०-सेट् ।)
वकारयुक्तः । श्वठयति नीचः । कुत्सितं वदतीत्यर्थः । रमा- नाथस्तु सम्यग्भाषणे इति मत्वा श्वठयति सम्यग्वदतीत्यर्थ इत्याह । सम्यग्भाग इत्यप्येके इति दुर्गादासः ॥