वाचस्पत्यम्
श्वस्तन || त्रि० श्वोभवः श्वस्—ठ्युल् तुट् च । भाविदिनस्यायि वस्तुनि स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
श्वस्तनं || त्रि (श्वो भवम् । श्वस् + “एषमोह्यः श्वसोऽन्यतरस्याम् ।” ४ । २ । १०५ । इति त्यब्- भावे ट्युट्युलौ तुट् च ।)
भविष्यद्वस्तु । इति शब्दमाला ॥ (यथा, भागवते । ११ । ८ । १२ । “सायन्तनं श्वस्तनं वा न संगृह्णीत भिक्षुकः । मक्षिका इव संगृह्णन् सह तेन विनश्यति ॥”)
भविष्यत्काले, क्ली । इति राजनिर्घण्टः ॥