संस्कृत-शब्दकोशः

श्वासकास श्वासधारण

श्वासकुठार

वाचस्पत्यम्

श्वासकुठार ||‍ पु० श्वासे कुठार इव । श्वासरोगोषधभेदे “रसो गन्धो विषञ्चापि टङ्कणञ्च मनः शिला । एतानि कर्षमात्राणि मरिचञ्चाष्टकर्षकम् । कटुत्रयं कर्षयुग्मं पृथगत्र विनिःक्षिपेत् । रसः श्वासकुठारोऽयं सर्वश्वास निवारकः” भावप्र० ।


शब्दकल्पद्रुमः

श्वासकुठारः || पुं, (श्वासस्य कुठार इव तन्नाशक- त्वात् ।)
श्वासरोगस्य औषधविशेषः । यथा, —
“रसो गन्धो विषञ्चापि टङ्कणञ्च मनःशिला । एतानि कर्षमात्राणि मरिचञ्चाष्टकर्षकम् ॥ कटुत्रयं कर्षयुग्मं पृथगत्र विनिःक्षिपेत् । रसः श्वासकुठारोऽयं सर्व्वश्वासनिवारणः ॥” इति भावप्रकाशः ॥



Correction: