वाचस्पत्यम्
श्वेतकुश || पु० कर्म० । शुक्लवर्णें कुशभेदे राजनि० ।
शब्दकल्पद्रुमः
श्वेतकुशः || पुं, (श्वोतः कुशः ।)
तृणविशेषः । तत्त्पर्य्यायः । सितदर्भः २ ह्रस्वकुशः ३ पूतः ४ यज्ञीयपत्रकः ५ वज्राः ३ ब्रह्मपवित्रः ७ तीक्ष्णः ८ यज्ञभूषणः ९ सूचीमुखः १० पुण्यतृणः ११ बर्हिः १२ पूतयणः १२ । अस्य मूलगुणाः । हिमत्वम् । रुच्यत्वम् । मधुरत्वम् । पित्तरक्त- ऽधरतषाश्वासकामलादोषनाशित्वञ्च । इति राजनिर्घण्टः ॥