वाचस्पत्यम्
श्वेतच्छद || पुंस्त्री० श्वेतः छदः पक्षोऽस्य । १ हंसे हला० । स्त्रियां ङीष् । २ शुभ्रपक्षयुक्ते त्रि० ।
शब्दकल्पद्रुमः
श्वेतच्छदः || पुं, (श्वेतः च्छदोयस्य ।) हंसः । इति हलायुधः ॥ गन्धपत्रः । इति शब्दचन्द्रिका ॥ बाबुइ तुलसी इति भाषा ॥