संस्कृत-शब्दकोशः

श्वेतटङ्कण श्वेतद्विप

श्वेतदूर्वा

वाचस्पत्यम्

श्वेतदूर्वा ||‍ स्त्री कर्म० । शुभ्रदूर्वायां राजनि० ।


शब्दकल्पद्रुमः

श्वेतदूर्व्वा || स्त्री (श्वेता दूर्व्वा ।)
शुक्लदूर्व्वा । तत्- पर्य्यायः । गोलमी २ सिताख्या ३ चण्डा ४ भद्रा ५ भार्गवी ६ दुर्म्मरा ७ गौरी ८ विघ्ने- शानकान्ता ९ अनन्ता १० श्वेता ११ दिव्या १३ श्वेतकाण्डा १३ प्रचण्डा १४ सहस्रवोर्य्या १५ सहस्रकाण्डा १६ सहस्रपर्व्वा १७ सुरवल्लभा १८ शुभा १९ सुपर्व्वा २० सितच्छदा २१ स्वच्छा २२ कच्छान्तरुहा २३ । अस्या गुणाः । अतिशिशि- रत्वम् । मधुरत्वम् । वान्तिपित्तामातिसार- कासदाहतृषानाशित्वम् । रुच्यत्वञ्च । इति राजनिर्घण्टः ॥



Correction: