वाचस्पत्यम्
श्वेतवचा || स्त्री श्वेता वचेव । अतिविषायां (आतैच) रा- जनि० “पारसीकवचा शुक्ला प्रोक्ता हैमवतीति सा । हैमवत्युदिता तद्वच्छूलं हन्ति विशेषतः” भावप्र० ।
शब्दकल्पद्रुमः
श्वेतवचा || स्त्री (श्वेता वचा ।)
अतिविषा । शुक्लवचा । सादा वच् इति भाषा । तत्पर्य्यायः । मेध्या २ षड्ग्रन्था ३ दीर्घपत्रिका ४ तीक्ष्ण- गन्धा ५ हैमवती ६ मङ्गल्या ७ । अस्या गुणाः । अतिगुणाठ्यत्वम् । मतिमेधायुःसमृद्धिदत्वम् । कफनाशित्वञ्च । इति राजनिर्घण्टः ॥ अन्यच्च । “पारसीकवचा शुक्ला प्रोक्ता हैमवतीति सा । हैमवत्युदिता तद्वच्छूलं हन्ति विशेषतः ॥” तद्वत् वचावत् । इति भावप्रकाशः ॥