वाचस्पत्यम्
श्वेतवासस् || पु० श्वेतं वासोऽस्य । १ सन्त्यासिभेदे २ शुक्ल- वस्त्रयुक्ते त्रि० ।
शब्दकल्पद्रुमः
श्वेतवासाः || [स्] पुं, श्वेतं वासो यस्य ।) शुक्ल- वस्त्रधारिसन्न्यासी । इति हलायुधः ॥ परिहित शुक्लवसने, त्रि ॥