वाचस्पत्यम्
श्वेतशिंशपा || स्त्री कर्म० । शुभ्रशिशपायां राजनि० ।
शब्दकल्पद्रुमः
श्वेतशिंशपा || स्त्री (श्वेता शिंशपा ।)
शुक्ल- शिंशपावृक्षः । तत्पर्य्यायः । श्वोतपत्रा २ श्वेतचिल्लिका ३ । अस्या गुणाः । तिक्तत्वम् । शिशिरत्वम् । पित्तदाहनाशित्वञ्च । इति राजनिर्घण्टः ॥