वाचस्पत्यम्
श्वेतसर्प || पु० श्वेतः सन् सर्पति सृप—अच् । १ वरुणवृक्षे जटा० कर्म० । २ शुभ्रभुजगे पुंस्त्री० । स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
श्वेतसर्पः || पुं, वरुणवृक्षः । इति जटाधरः ॥ (श्वेतः सर्पः ।) शुक्लवर्णाहिश्च ॥