वाचस्पत्यम्
श्वेतार्क || पु० कर्म० । शुभ्रवर्णपुष्पके अर्कवृक्षे राजनि० ।
शब्दकल्पद्रुमः
श्वेतार्कः || पुं, (श्वेतः शुक्लवर्णः अर्कः ।)
शुक्लार्क- वृक्षः । सादा आकन्द इति भाषा । तत्प- र्य्यायः । तपनः २ श्वेतः ३ प्रतापः ४ सिता- र्क्ककः ५ शर्करापुष्पः ६ वृत्तमल्लिका ७ । अस्य गुणाः । कट्त्वम् । तिक्तत्वम् । उष्णत्वम् । मलशोधनकारकत्वम् । मूत्रकृच्छ्रास्रशोफार्त्ति- व्रणदोषविनाशनत्वञ्च । इति राजनिर्घण्टः ॥