संस्कृत-शब्दकोशः

श्वेतेक्षु श्वेतौही

श्वेतोदर

वाचस्पत्यम्

श्वेतोदर ||‍ पु० श्वेतमुदरं यस्य । कुबेरे त्रिका० ।


शब्दकल्पद्रुमः

श्वेतोदरः || पुं, (श्वेतं उदरं यस्य ।)
कुबेरः । इति त्रिकाण्डशेषः ॥ (दर्व्वीकरसर्पाणामन्य- तमः । यथा, सुश्रुते कल्पस्थाने ४ अध्याये । “श्वेतोदरो महाशिरा अलगर्द्दो आशीविष इति ॥”)
शुक्लवर्णजठरश्च ॥



Correction: