वाचस्पत्यम्
षट्तिलिन् || पु० षट् तिलाः तिलोद्वर्त्तनादयः कर्भाण्यस्य । “तिलाद्वर्त्ती तिलस्नायी तिलहाला तिलप्रदः । तिल- मुक् तिलवापी च षटतिली भावसीदति” इत्युक्त तिलो- द्धर्त्तनादिकारिणि ।
शब्दकल्पद्रुमः
षट्तिली || [न्] त्रि, (उद्वर्त्तनादिभदेन षट्प्रकारा- स्तिलाः सन्त्यस्येति । षट्तिल + इनिः ।)
जन्म- तिथ्यादौ तिलकरणकषट्कर्म्मकारी । यथा, —
“तिलोद्वर्त्तो तिलस्नायी तिलहोमी तिलप्रदः । तिलभुक् तिलवापी च षट्तिली नावसीदति ॥” इति तिथ्यादितत्त्वम् ॥