वाचस्पत्यम्
षडभिज्ञ || पु० “दिव्यं चक्षुःश्रोत्रं १ परिचित्तज्ञानं २ पूर्व- निवासानुस्मृतिः ३ मात्मज्ञानभ् ४ वियद्गतिः ५ कायव्यूह- मिद्धि ६ श्चेष्वेतानि षट् अभिज्ञा अभिज्ञायमानानि यस्य । वोद्धभेदे अमरः ।
शब्दकल्पद्रुमः
षडभिज्ञः || पुं, (षट्षु धर्म्मार्थकाममोक्षलोकत- त्त्वार्थेषु अभिज्ञा यस्य । बुद्धः ॥ इत्यमरः ॥