वाचस्पत्यम्
षड्ग्रन्थि || न० षट् ग्रन्थयोऽस्य । १ पिप्पमीमूले वैद्यकम् । २षट् पर्वयुक्ते त्रि० । ३ वचायां स्त्रीःवा ङीप् । संज्ञायां कन् टाप् अत इत्त्वम् । शठ्यां स्त्रा अमरः ।
शब्दकल्पद्रुमः
षड्ग्रन्थि || क्ली (षट् ग्रन्थयो यस्य)
पिप्पली- मूलम् । इति वैद्यकम् ॥ षट्पर्व्वणि, पुं, भूम्नि ॥