वाचस्पत्यम्
षम || वैकल्ये अद० चु० उभ० अक० सेट् । समयति गे अससमत् त । सिषमयिषति ।
शब्दकल्पद्रुमः
षम || त् क वैक्लव्ये । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-अक०-सेट् ।)
सिषमयिषति । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
षम || वैक्लव्ये । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- अक०-सेट् ।)
वैक्लव्यं विह्वलीभावः । “समन्ति यद्वियोगेन सीमन्तिन्यः स्मरातुराः ।” इति दुर्गादासः ॥