संस्कृत-शब्दकोशः

म्लेच्छित म्लेटृ

म्लेच्छ्

म्लेच्छ अव्यक्ते शब्दे अव्यक्तायां वाचि


गणः- चुरादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- म्लेच्छयति–ते

अर्थ−
१. अस्पष्ट बोल्नु, अशुद्ध बोल्नु,
२. असम्बद्ध भाषण गर्नु,
३. म्लेच्छ भाषा बोल्नु ।

कृदन्तरूपमाला

  • 1“म्लेच्छ अव्यक्तायां वाचि” 2 3 ‘इहाव्यक्तवागपशब्दनम्।’ इति माधवः।
  • चान्द्रास्तु धातुममुमत्र 4 न पठन्तीति क्षीरतरङ्गिण्यां स्पष्टम्।
  • म्लेच्छकः-च्छिका, मिम्लेच्छयिषकः-षिका;
  • म्लेच्छयिता-त्री, मिम्लेच्छयि- षिता-त्री;
  • इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकचित्रयतिवत् 5 ज्ञेयानि।

प्रासङ्गिक्यः

  • ↑ (१३३०)
  • ↑ (१०-चुरादिः-१६६३। अक। सेट्। उभ।)
  • ↑ [पृष्ठम्१०६३+ २३]
  • ↑ (चुरादौ)
  • ↑ (५२५)


म्लेच्छ अव्यक्ते शब्दे अव्यक्तायां वाचि


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- म्लेच्छति

अर्थ−
१. अस्पष्ट बोल्नु, अशुद्ध बोल्नु,
२. असम्बद्ध भाषण गर्नु,
३. म्लेच्छ भाषा बोल्नु ।

कृदन्तरूपमाला

  • 1“म्लेच्छ अव्यक्ते शब्दे” 2 ‘अव्यक्तायां वाचि’ इति क्षीरस्वामी।
  • 3 म्लेच्छकः-च्छिका, म्लेच्छकः-च्छिका, मिम्लेच्छिषकः-षिका, मेम्लेच्छकः- च्छिका;
  • म्लेच्छिता-त्री, म्लेच्छयिता-त्री, मिम्लेच्छिषिता-त्री, मेम्लेच्छिता-त्री;
  • इत्यादीनि समस्तान्यपि रूपाणि दैवादिकक्लिश्यतिवत् 4 ज्ञेयानि।
  • 5 म्लिष्टम्, शतरि-म्लेच्छन्-न्ती, क्विपि-- 6 म्लेट्-म्लेड्- म्लेडौ-म्लेडः, इति विशेषः।
  • 7 म्लेच्छितवै।

प्रासङ्गिक्यः

  • ↑ (१३२९)
  • ↑ (१-भ्वादिः-२०५। अक। सेट्। पर।)
  • ↑ २। धातुरयमुपदेशे म्लेछ इत्येव पठ्यते। पश्चात्, ‘दीर्घात्’ (६-१-७५) इति तुक्। तुकश्चुत्वेन चकारे सर्वत्र म्लेच्छ इति श्रूयते।
  • ↑ (२८७)
  • ↑ ३। ‘क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्प- स्वरानायासभृशेषु’ (७-२-१८) इत्यादिना यथासम्भवमस्य निष्ठायाम्, अविस्पष्टार्थे इडभावो निपात्यते। षत्व-ष्टुत्वादिकेषु म्लिष्टम् इति भवति। अन्यत्र म्लेच्छितम् इत्यपि साधुः।
  • ↑ ४। क्विपि, ‘च्छ्वोः शूडनुनासिके च’ (६-४-१९) इति सतुक्कस्य छकारस्य शकारे, षत्वे, जश्त्वचर्त्वयोश्च रूपमेवम्। “वृत्तिप्रदीपे तु वितुक्कस्य शादेश उक्तः, तुगभावस्तु ‘अकृतव्यूहाः पाणिनीयाः (परि ५७…) कृतमपि शास्त्रं निवर्तयन्तीति।” इति मा। धा। वृत्तौ अत्र पक्षभेदः प्रोक्त इहावधेयः।
  • ↑ ५। ‘कृत्यार्थे तवैकेन्केन्यत्वनः’ (३-४-१४) इति च्छन्दसि विषये धातोरस्मात् तवैप्रत्यये इडागमे च रूपमेवम्। तथा च किञ्चित् श्रुतिवाक्यमुपात्तं महाभाष्ये (१-१-१) “तस्माद् ब्राह्मणेन न म्लेच्छितवै नापभाषितवै, म्लेच्छो ह वा एष यदपशब्दः।” इति।



Correction: