लषित
लस
लष्
लष शिल्पयोगे
गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- लाषयति–ते
अर्थ−
१. चतुर हुनु, कला-कौशल जान्नु ।
कृदन्तरूपमाला
- 1“लस शिल्पयोगे” 2 शिल्पयोगे = कौशले इत्यर्थः इति बालमनोरमा।
- “--शिल्पोपयोगे भ्रमादिना तक्ष्णोतीत्यर्थः” इति क्षीरस्वामी।
- ‘तालव्यान्त 3 इति कौशिकः’ इति तरङ्गिण्याम्।
- “केचित् मूर्धन्यान्तं पठन्ति” इति स्वामी इत्याह” इति मा।
- धा।
- वृत्तौ।
- पुरुषकारधातुवृत्तिकारप्रौढमनोरमाकारादयः स्वामिमते ‘लस’ इति दन्त्यं पठित्वा ‘लष’ इति मूर्धन्यान्तमिति केचित् इति पठन्ति।
- प्रकृतक्षीरतरङ्गिण्यां तु ‘लष शिल्पोपयोगे’ इत्येव दृष्टः पाठः।
- ‘लासयेत् शिल्पयोगेऽर्थे श्लेषणे क्रीडने लसेत्।।’ 4 इति देवः।
- लासकः-सिका, लिलासयिषकः-षिका, लासयिता-त्री, लिलासयिषिता-त्री;
- इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककालयतिवत् 5 ज्ञेयानि।
प्रासङ्गिक्यः
लष कान्तौ
गणः- भ्वादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- लष्यति–ते,लषति–ते
अर्थ−
१. इच्छा गर्नु, चाहनु ।
अभि-
१. चाहनु ।
कृदन्तरूपमाला
- 1“लष कान्तौ” 2 ‘कान्तौ लष्यति लष्येत श्यनि वा लषते लषेत्।।’ 3 इति देवः।
- कान्तिः = इच्छा।
- लाषकः-षिका, लाषकः-षिका, लिलषिषकः-षिका, लालषकः-षिका;
- लषिता-त्री, लाषयिता-त्री, लिलषिषिता-त्री, लालषिता-त्री;
- 4 लष्यन् 5 -लषन्-न्ती, लाषयन्-न्ती, लिलषिषन्-न्ती;
- -- लषिष्यन्-न्ती, लाषयिष्यन्-न्ती-ती, लिलषिषिष्यन्-न्ती-ती;
- -- लषमाणः, लष्यमाणः, लाषयमाणः, लिलषिषमाणः, लालष्यमाणः;
- लषिष्यमाणः, लाषयिष्यमाणः, लिलषिषिष्यमाणः, लालषिष्यमाणः;
- इत्यादीनि रूपाणि सर्वाणि भौवादिककाशतिवत् 6 बोध्यानि।
- 7 अभि- लाषुकः, 8 9 लषणः, विलाषी 10 11 अपलाषिणः, 12 लशुनम्, लिष्वः 13;
- इमानि रूपाण्यधिकान्यत्रेति विशेषः।
- 14
प्रासङ्गिक्यः