संस्कृत-शब्दकोशः

लुटि लुठ

लुट्

लुट भासार्थे भाषार्थे वा


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- लोटयति–ते

अर्थ−
१. चम्कनु, प्रकाशित हुनु,
२. बोल्नु, भाषण गर्नु ।

कृदन्तरूपमाला

  • 1“लुट भाषार्थः” 2 आस्वदीयः।
  • ‘णौ लोटयति भाषार्थे लुट्येल्लोटति लोटने।।’ 3 इति देवः।
  • लोटकः-टिका, लुलोटयिषकः-षिका;
  • लोटयिता-त्री, लुलोटयिषिता-त्री;
  • इत्यादिकानि रूपाणि सर्वाण्यपि चौरादिककोटयतिवत् 4 बोध्यानि।

प्रासङ्गिक्यः

  • ↑ (१५०१)
  • ↑ (१०-चुरादिः-१७५५। सक। सेट्। उभ।)
  • ↑ (श्लो। ७३)
  • ↑ (२०५)


लुट प्रतिघाते


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- लोटते

अर्थ−
१. प्रतिबन्ध गर्नु, रोक्नु,
२. धकेल्नु, धक्का दिनु ।

कृदन्तरूपमाला

  • 1“लुट प्रतीघाते” 2 ‘लोटते प्रतिघातेऽर्थे स्तेये लुण्टति लुण्टयेत्।’ 3 इति देवः।
  • अयं पाठो देवमैत्रेयादीनाम्।
  • क्षीरस्वामी तु द्वितीयान्तं पठित्वा ‘लुट’ इत्येके, इति वदति।
  • लोटकः-टिका, लोटकः-टिका, लुलुटिषकः-लुलोटिषकः-षिका, लोलुटकः-टिका;
  • लुटिता-त्री, लोटयिता-त्री, लुलुटिषिता-लुलोटिषिता-त्री, लोलुटिता-त्री;
  • इत्यादीनि रूपाणि सर्वाण्यपि भौवादिककुकतिवत् 4 ऊह्यानि।

प्रासङ्गिक्यः

  • ↑ (१४९८)
  • ↑ (१-भ्वादिः-७४९। सक। सेट्। आत्म।)
  • ↑ (श्लो। ७४)
  • ↑ (१९७)


लुट विलोडने


गणः- दिवादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- लुट्यति

अर्थ−
१. काँप्नु, हल्लनु, मथ्नु ।

कृदन्तरूपमाला

  • 1“लुट विलोडने” 2 ‘-- विलोटने’ इति क्षीरस्वामी।
  • ‘लुठ--’ इति द्वितीयान्तः पठितः सि।
  • कौमुद्याम्।
  • धातुकाव्येऽपि 3 एवमेव।
  • शतरि-लुठ्यन् इति अस्य प्रयोगोऽपि दृश्यते।
  • ‘णौ लोटयति भाषार्थे, लुट्येल्लोटति लोटने।।’ 4 इति देवः।
  • लोटकः-टिका, लोटकः-टिका, लुलुटिषकः-लुलोटिषकः-षिका, लोलुटकः-टिका;
  • लोटिता-त्री, लोटयिता-त्री, लुलुटिषिता-लुलोटिषिता-त्री, लोलुटिता-त्री;
  • इत्यादीनि रूपाणि सर्वाण्यपि दैवादिकगुध्यतिवत् 5 ऊह्यानि।

प्रासङ्गिक्यः

  • ↑ (१४९९)
  • ↑ (४-दिवादिः-१२२२। सक। सेट्। पर।)
  • ↑ (२-६६)
  • ↑ (श्लो। ७३)
  • ↑ (४०५)


लुट विलोडने


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- लोटति

अर्थ−
१. काँप्नु, हल्लनु, मथ्नु ।

कृदन्तरूपमाला

  • 1“लुट विलोटने” 2 ‘णौ लोटयति भाषार्थे लुट्येल्लोटति लोटने।।’ लोटते प्रतिघातेऽर्थे स्तेये लुण्टति लुण्टयेत्।’ 3 इति देवः।
  • लोटकः-टिका, लोटकः-टिका, लुलुटिषकः-लुलोटिषकः-षिका, लोलुटकः-टिका;
  • लुटिता-त्री, लोटयिता-त्री, लुलुटिषिता-लुलोटिषिता-त्री, लोलुटिता-त्री;
  • इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककुकतिवत् 4 ऊह्यानि।
  • “लुड-- इति टवर्गतृतीयान्तः इति कौशिककाश्यपनन्दिद्रमिडाः” इति मा।
  • धा।
  • वृत्तौ।
  • ‘-- विलोडने’ इति दुर्गः।
  • ‘लुट--’ इत्यत्र ‘लुल-- इति अन्ये’ इति धा।
  • का।
  • व्याख्याने 5।
  • “भूवादिसूत्रे 6 सुधाकरः- ‘लुल--’ इति लान्तोऽपि दृश्यते, ‘आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्- भुजाकारबृहत्तरङ्गम्’ शि।
  • व।
  • 7 इति।
  • डलयोरेकत्वस्मरणमिति वा प्रतिविधेयम्” इति मा।
  • धा।
  • वृत्तौ।
  • इत्युक्तमत्र स्मरणीयम्।
  • 8 लोलमानः 9।
  • 10

प्रासङ्गिक्यः

  • ↑ (१४९७)
  • ↑ (१-भ्वादिः। ३१४। सक। सेट्। पर।)
  • ↑ (श्लो। ७३-७४)
  • ↑ (१९७)
  • ↑ (२-१)
  • ↑ (१-३-१)
  • ↑ (३-७२)
  • ↑ १। ‘ताच्छील्यवयोवचनशक्तिषु चानश्’ (३-२-२९) इति ताच्छील्ये चानश्प्रत्यये रूपमेवम्।
  • ↑ आ। ‘आमृशद्भिरभितो वलिवीचीर्लोलमानवितताङ्गुलिहस्तैः।’ शि। व। १०-५९।
  • ↑ [पृष्ठम्११६९+ २५]


लुट संश्लेषणे


गणः- तुदादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- लुटति

अर्थ−
१. संयोग गर्नु, मिलाप गर्नु, जोड्नु,
२. आलिङ्गन गर्नु, अङ्कमाल गर्नु ।

कृदन्तरूपमाला

  • 1“लुट संश्लेषणे” 2 कुटादिः।
  • ‘लुठ--’ इति धा।
  • का।
  • व्याख्याने 3, ‘लुड इत्येके’ इति च तत्रोपात्तम्।
  • क्षीरतरङ्गिण्यां धातुरयं न पठितः।
  • अपि तु ‘पुट संश्लेषणे’ इत्यत्र ‘लुट विलोडने इति दुर्गः’ इत्युपात्तम्।
  • तत्र टिप्पण्यां “कातन्त्र- धातुपाठे ‘लुट संश्लेषणे’ इति पाठः, काशकृत्स्ने लुठ--” इत्येवं दृश्यते।
  • ‘णौ लोटयति भाषार्थे लुट्येत् लोटति लोटने।।’ 4 इति देवः।
  • लोटकः-टिका, लोटकः-टिका, लुलुटिषकः-षिका, लोलुटकः-टिका;
  • लुटिता-त्री, लोटयिता-त्री, लुलुटिषिता-त्री, लोलुटिता-त्री;
  • इत्यादीनि रूपाणि सर्वाण्यपि तौदादिककुटतिवत् 5 बोध्यानि।
  • 6

प्रासङ्गिक्यः

  • ↑ (१५००)
  • ↑ (६-तुदादिः-१३८१। सक। सेट्। पर।)
  • ↑ (२-८१)
  • ↑ (श्लो। ७३)
  • ↑ (२०४)
  • ↑ [पृष्ठम्११७०+ २६]



Correction: