संस्कृत-शब्दकोशः

लोचृ लोट

लोच्

लोचृ दर्शने


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- लोचते

अर्थ−
१. हेर्नु ।

कृदन्तरूपमाला

  • 1“लोचृ दर्शने” 2 ‘णौ लोचयति भाषार्थे दर्शने शपि लोचते।।’ 3 इति देवः।
  • लोचकः-चिका, लोचकः-चिका, लुलोचिषकः-षिका, लोलोचकः-चिका;
  • लोचिता-त्री, लोचयिता-त्री, लुलोचिषिता-त्री, लोलोचिता-त्री;
  • इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकलोकतिवत् 4 बोध्यानि।
  • ‘लोचकः-स्त्रीशिरोवस्त्रम् शिरस्त्रञ्च’ इति क्षीरतरङ्गिण्याम्।
  • आलोचितः, लोचनम्, आलोचनम्;
  • ल्युटि- 5 लोचनम्।

प्रासङ्गिक्यः

  • ↑ (१५२२)
  • ↑ (१-भ्वादिः-१६४। सक। सेट्। आत्म।)
  • ↑ (श्लो। ४६)
  • ↑ (१५२०)
  • ↑ आ। ‘सुलोचना यत्र शचीसमप्रभा…।।’ धा। का। १। २४।


लोचृ भासायाम्, भाषायाम् वा


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- लोचयति–ते

अर्थ−
१. चम्कनु, प्रकाशित हुनु,
२. भाषण गर्नु, बोल्नु ।
आ-
१. विचार गर्नु, मनन गर्नु ।

कृदन्तरूपमाला

  • 1“लोचृ भाषार्थः” 2 आस्वदीयः।
  • तेन णिज्विकल्पः।
  • ‘णौ लोचयति भाषार्थे दर्शने शपि लोचते।।’ 3 इति देवः।
  • लोचकः-चिका, लुलोचयिषकः-षिकः, लोचकः-चिका, लुलोचिषकः-षिका, लोलोचकः-चिका;
  • इत्यादीनि रूपाणि सर्वाणि 4 भौवादिकदर्शनार्थकलोकतिवत् 5 ऊह्यानि।
  • ण्यन्तप्रकृतिकसन्नन्ते तु भाषार्थकलोकयतिवत् 6 ऊह्यानि।

प्रासङ्गिक्यः

  • ↑ (१५२३)
  • ↑ (१०-चुरादिः-१७७८। सक। सेट्। उभ।)
  • ↑ (श्लो। ४६)
  • ↑ [ण्यन्तप्रकृतिकसन्नन्तं विना]
  • ↑ (१५२०)
  • ↑ (१५२१)



Correction: