संस्कृत-शब्दकोशः

वर्णोद्दिष्ट वर्ण्य

वर्ण्

वर्ण क्रियाविस्तारगुणवचनेषु


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- वर्णयति–ते

अर्थ−
१. वर्णन गर्नु, वखान गर्नु,
२. विस्तृत गर्नु, फैलाउनु,
३. प्रशंसा गर्नु,
४. चम्कनु,प्रकाशित हुनु ।

कृदन्तरूपमाला

  • 1“वर्ण वर्णक्रियाविस्तारगुणवचनेषु” 2 अदन्तः।
  • वर्णक्रिया = वर्णनं, वर्णकरणं वा।
  • कथां वर्णयति, सुवर्णं वर्णयति, विस्तृणाती- त्यर्थः।
  • विस्तारे--वर्णनेयम्।
  • गुणवचनं = स्तुतिः, शुक्लाद्युक्तिर्वा।
  • राजान- मुपवर्णयति।
  • ‘-- रागे विस्तारे प्रशंसायां च’ इति काशकृत्स्नः।
  • वर्णकः-र्णिका, विवर्णयिषकः-षिका;
  • वर्णयिता-त्री, विवर्णयिषिता-त्री;
  • इत्यादीनि रूपाणि सर्वाणि भेदनार्थकचौरादिककर्णयतिवत् 3 ज्ञेयानि।

प्रासङ्गिक्यः

  • ↑ (१५६३)
  • ↑ (१०-चुरादिः-१९३८। सक। सेट्। उभ।)
  • ↑ (१७०)


वर्ण प्रेरणे वर्णने च


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- वर्णयति–ते

अर्थ−
१. आज्ञा गर्नु, प्रेरणा गर्नु, पठाउनु,
२. रङ्गाउनु ।

कृदन्तरूपमाला

  • 1“वर्ण प्रेरणे” 2 ‘मैत्रेय एवमुक्तवान्’ इति मा।
  • धा।
  • वृत्तिः।
  • क्षीरस्वामी तु ‘-- वर्णने’ इत्याह।
  • सि।
  • कौमुद्यामपि ‘-- प्रेरणे’ इति पठित्वा, ‘वर्णने इत्येके’ इति दृश्यते।
  • वर्णकः-र्णिका, विवर्णयिषकः-षिका;
  • वर्णयिता-त्री, विवर्णयिषिता-त्री;
  • इत्यादीनि रूपाणि सर्वाण्यपि चौरादिकचूर्णयतिवत् 3 बोध्यानि।
  • वर्णं गृह्णाति इत्यर्थे वर्णयति-- ‘सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्ण--’ 4 इति णिच्।

प्रासङ्गिक्यः

  • ↑ (१५६२)
  • ↑ (१०-चुरादिः-१५५१। सक। सेट्। उभ।)
  • ↑ (५५९)
  • ↑ (३-१-२५)



Correction: