वल्ह
वव
वल्ह्
वल्ह भासायां भाषायाम् वा
गणः- भ्वादिः
कर्मकः-अर्थानुगुण्येन सकर्मकोऽकर्मकश्च
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- वल्हयति-ते
अर्थ−
१. प्रकाशित हुनु, चम्कनु,
२. बोल्नु ।
कृदन्तरूपमाला
वल्ह परिभाषणहिंसाच्छादनेषु
गणः- भ्वादिः
कर्मकः-अर्थानुगुण्येन सकर्मकोऽकर्मकश्च
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- वल्हते
अर्थ−
१. बोल्नु,भन्नु,
२. मार्नु, सताउनु,
३. ढाक्नु, छोप्नु ।
कृदन्तरूपमाला
- 1“वल्ह परिभाषणहिंसाच्छादनेषु” 2 ‘केचित्तु ओष्ठ्यादिः इत्याहुः’ इति सि।
- कौमुद्याम्।
- ‘-- परिभाषणहिंसा- दानेषु’ इति, दन्त्यौष्ठ्यादिः, ‘अत्र धनपालमैत्रेयौ परिभाषणादावोष्ठ्या- दित्वम्, वृद्धौ दन्त्यौष्ठ्यादित्वं चाहतुः’ इति च माधवः।
- ‘बल्ह प्राधान्ये’ इति तरङ्गिण्याम्।
- पाणिनीयधातुपाठममीक्षायाम्-- ‘वल्ह प्राधान्ये’ इति मैत्रैयकातन्त्रशाकटायनहेमादयः पठन्ति।
- ‘-- श्रैष्ठ्ये’ इति वोपदेवः’ इत्युक्तम्।
- “-- दाने च’ इति द्रुमे।
- परिभाषणमत्र वञ्चनवादः।” इति धा।
- का।
- व्याख्यायाम् 3।
- वल्हकः-ल्हिका, वल्हकः-ल्हिका, विवल्हिषकः-षिका, वावल्हकः-ल्हिका;
- वल्हिता-त्री, वल्हयिता-त्री, विवल्हिषिता-त्री, वावल्हिता-त्री;
- 4 इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकगर्हतिवत् 5 ज्ञेयानि।
- ल्यपि- प्रवल्ह्य।
प्रासङ्गिक्यः